स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् । तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥
stomena hi divi devāso agnim ajījanañ chaktibhī rodasiprām | tam ū akṛṇvan tredhā bhuve kaṁ sa oṣadhīḥ pacati viśvarūpāḥ ||
स्तोमे॑न । हि । दि॒वि । दे॒वासः॑ । अ॒ग्निम् । अजी॑जनन् । शक्ति॑ऽभिः । रो॒द॒सि॒ऽप्राम् । तम् । ऊँ॒ इति॑ । अ॒कृ॒ण्व॒न् । त्रे॒धा । भु॒वे । कम् । सः । ओष॑धीः । प॒च॒ति॒ । वि॒श्वऽरू॑पाः ॥ १०.८८.१०